Paper Details
दार्शनिकदृष्ट्या प्राणतत्त्वविचा
Authors
गोविंद प्रसाद शर्मा
Abstract
वेदः एव भारतीयसंस्कृते: मूलाधारः । वेदस्य कान्डद्वयं स्वीकृतम्- ज्ञानं कर्म च। उपनिषद् तथा ज्ञानपरम्। यद्यपि मोक्षार्थाय ज्ञानमेव मूलं तथापि तस्यात्मज्ञानस्य साधनरूपेण कर्मयोगः स्वीकृतः। अतः ज्ञानं कर्म च परिपूरकम् । गीतायां गीयते-
“सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते।” (४/३३)
जगति चेतनाचेतनश्च पदार्थद्वयं स्वीकृतम्। तत्र चेतन: प्राणवान् जीवः इति। यत्र प्राणानाम् अस्तित्वं तत्र आत्मा सुप्रकाशितः । यावत् मानवाः जीविताः तावदेव प्राणानां कार्यकारिता । प्राणहीनजीवः मृतरेव। एतेन प्राणात्मनो तादात्म्यम् अभेदत्वं वा सूच्यते। परन्तु प्राणानामुत्पत्तिः कीदृशेन सम्भवति? प्राणानाम् अवयवाः स्वीकृताः। सावयवत्वे सति प्राणानाम् अवश्यमेव जन्यत्वं स्वीकृतम्। प्राणानामुत्पत्तिविषये वेदान्त्सारे निर्णीतम्- “तमप्रधानविक्षेपशक्तिमदज्ञानोपहितचैतन्यात् : :आकाश, आकाशात् वायुइत्यादिक्रमेण पञ्चसूक्ष्मभूतानि उत्पद्यन्ते। अत : प्राणादिपञ्चलिङ्गशरीरम् आकाशादिगतरजउत्पद्यते : अंशेभ्यो मिलितेभ्य: । शरीरे प्राणाः मुख्यविषयाः । सः हृदिस्थित्वा पृथक् पृथगेव कार्यं सम्पादयति । प्राणा: मूलतः जीवशरीरे प्राणापान्समानव्यानोदानाः पञ्चवायवाः एव। प्राणा एकः एव पञ्चविभागत्वेन स्थित्वा पृथक् कार्यं सम्पादयन्ति। यथा प्राणाः इति चक्षुः शोत्रमुखनासिकाभ्यां तिष्ठन्ति । प्राणापानयोः नाभ्यां मध्ये तु समानः वायुः अशितं पीतञ्च समं नयति। सर्वदेहं संव्याप्य व्यानो वर्तते। ऊर्द्ध उदान: तथा ऊर्द्धगमनवति सुषम्नाख्या नाडी इति। न केवलं शरीराभ्यन्तरे अपि तु वहि: जगति प्राणाद्यवयवानां प्रकाशत्वम्।
परमपुरुषार्थः मोक्षः सर्वेषां काम्यः । ब्रह्मज्ञानेन आत्मज्ञानेन वा मोक्षः प्रारब्धते। अस्मिन् चेतनशरीरे मानवः प्राणोपासनया आत्मत्वं लभते। तदेव समाधिना सम्भवम्। स्थिरचित्ते आत्मनि एकाग्रता अवश्यमेव अपरिहार्या । प्राणोपासनया प्राणात्मनोः एकात्मता जायते । प्राणशक्त्या दुःखादि परित्यज्य परमानन्दं लब्धते । तदेव मोक्ष्स्वरूपम्।
प्राणान् आश्रित्य आत्मा जीवे तिष्ठति । अनेन जीवात्मज्ञानेन परमात्मनं ज्ञायते । तदेव जीवानां मोक्षस्वरूपम्। तैत्तिरीयोपनिषदि श्रूयते- “सर्वमेव त आयुर्यन्ति, ये प्राणं ब्रह्मोपासते।”
कूटशब्दः वेदः- भारतीयसंस्कृते, ज्ञानं, कर्म
प्रस्तावना
उपनिषद् नाम वेदस्य ज्ञानकाण्डः। यत्र मोक्षलाभाय आत्मतत्त्वम् आलोचितम्, आत्मज्ञानस्य साधनरूपेण कर्मयोग: स्वीकृतः। यत: कार्येण विना जीवः न तिष्टति । गीतायां श्रूयते-
“यस्त्विन्दियाणि मनसा नियम्यारभतेऽर्जुन।
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥” (गीता३/७)
बृहदारण्यकोपनिषद्यपि श्रूयते - “अथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येति।”(४/४/६)
अत्र ब्रह्मप्राप्तौ प्राणानामुपयोगः स्वीकृतः। जगति चेतनाचेतनश्च पदार्थद्वयं प्रकाशितम्। चेतन: प्राणवान् जीव: इति। येन शास्त्रे अपि श्रूयते “यावद्वायु स्थितो तावज्जीवितमुच्यते मरणं तस्य निष्क्रान्तस्ततो वायुं निवन्धयेत्”१ इति। अतः प्रणानां प्रामाण्यम् अनुभवेन प्रत्यक्षगोचरम्। यत्र प्राणा: वर्तन्ते तत्रैव आत्मनः सुप्रकाशत्वम्। यावत् मानवः जीवितः तावत् प्राणानामेव कार्यकारिता। प्राणेषु गतेषु जीवः मृत एव। अत उपनिषदि आम्नातम्- “प्राणो हि भुतानामायु: "२ इति। आत्महीनशरीरं मृतं तथा प्राणहीनशरीरं मृतं शवतुल्यं वा।। एतेन प्राणात्मनो: तादात्म्यम् अभेदत्वं वा सूच्यते। शङ्कराचार्येण उक्तम्- “प्राणोऽत्ता प्रजापतिरित्युक्तम्, तस्य प्रजापतित्वमञ्च अस्मिन् शरीरेऽवधारितम्”३ कौषितक्युपनिषदि श्रूयते- “प्राणो ब्रह्मेति।”४ इति। अपि च बृहदारण्यकोपनिषदि लक्ष्यते- ‘कस्मिन्नुत्वं चात्मा च प्रतिष्टितौ स्थ इति प्राण इति”५ इति।
जीवेषु मानवः श्रेष्ठः इन्द्रियबुद्धिप्राणानां सुप्रकाशत्वात् ज्ञानार्थं व्यवहारात् च। मानवः सदा प्रज्ञानेन आनन्देन स्वशक्त्या भक्त्या च परमात्मना सह सयुज्यलाभार्थं चेष्टते। न केवलम् उपनिषदि संहितायामपि प्राणविषये आम्नातम्- “य: प्राणतो निमिषतो महित्वे"६ इति अपि च “यः प्राणिति य ईं शृणोत्युक्तम्”७ अपि च शुक्लयजुर्संहितायां स्वस्तिवचने श्रूयते-“वागेज: सहोजी महि प्राणापाणौ " इति।
प्राणसृष्टिः
प्राणाः इति पञ्च प्राण्द्या: वायवः स्वीकृताः । किन्तु सच्चिदानन्दस्वरूपं ब्रह्म निराकारः निरावयवः परमात्मा इति कथ्यते। सावयवत्वे सति प्राणानाम् अवश्यमेव जन्यत्वम्। यद्यपि प्राणा: आत्मना सह उपमीयते तथापि प्राणाः आत्मवत् न तु अजा: शाश्वता: तेषाम् उत्पत्तित्वात्। अतः कस्मात् प्राणाः जायन्ते? उपनिषदि श्रूयते- “आत्मन: एष प्राणो जायते” ८ इति। प्राणानाम् उत्पत्तिविषये वेदान्तसारग्रन्थे सदानन्दयोगीन्द्रेण निर्णीतम्- तमःप्रधानविक्षेशक्तिमदज्ञानोपहितचैतन्यात् आकाशात् वायुः इत्यादिक्रमेण
आकाश:,
पञ्च्असूक्ष्मभूतानि
उत्पद्यन्ते। तथा च श्रुति- "तस्माद्वा एतस्मादात्मनः आकाशः सम्भूतः”९ इति। एतेभ्यः सूक्ष्मशरीराणि उत्पद्यन्ते। तानि सप्तदशावयवानि लिङ्गशरीराणि वा। लिङ्गशरीरस्य पञ्चावायवः यथा प्राणापानव्यानोदानसमानाः। तत्रोक्तम्- “प्राणाः नाम प्राग्गमनवान् तासाग्रस्थानवर्ती”१० इति। एतत्
प्राणादिपञ्चकम् आकाशादिगतरज: अंशेभ्य: मिलितेभ्य: उत्पद्यते। स्वामीविद्यारण्येन उक्तम्-
“पूर्णो देहे वलं यच्छन्नलक्षाणां यः प्रवर्तकः।
वायुः प्राणमयो नासौ आत्मा चैतन्यवर्जनात्॥
उत्पत्तित्वात् प्राणाः आत्मवत् न शाश्वताः । उपनिषदि आम्नातम्- “प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे। तुभ्यां प्राण प्रजास्त्विमा वलिं हरन्ति यः प्राणैः प्रतितिष्टसि”११ इति। शङ्कराचार्येणापि भाष्ये प्राणोत्पत्तिविषये उक्तम् - त्वमेव गर्भं चरसि पितुर्मातुश्च : प्रजापतिरपि स :य“ सर्वदेहदेह्याकृतिच्छ,प्रतिजायसे : प्रतिरूपद्मना एक : प्राण : :सर्वात्मासीत्यर्थ।”
प्राणस्वरूप
के प्राणा: ? कुत्र वा तेषाम् अवस्थानम्? जीवशरीरे हृद्येव प्राणानां स्थानम्। उपनिषदि श्रूयते- “हृदि ह्येष आत्मा”१२ इति। शरीरे प्राणानामेव मुख्यत्वम्। अतः श्रुयते- “तस्य प्राण एव शिर:”१३ इति। स: हृदये स्थित्वा पृथक् पृथगेव कार्यं सम्पादयति। सः एव चक्षुः श्रोत्रादिज्ञानेन्द्रियाणां प्रेरकरूपेण शरीरे अस्ति, यथा आत्मा अपि चक्षुःश्रोत्रादीनां प्रेरकः । उपनिषदि आनातम्- “आत्मानं रथिनं विद्धि शरीरं रथमेव तु, बुद्धिं तु सारथिं विद्धि मन: प्रग्रहमेव च”१४ इति। अत: प्रेरकत्वात् प्राणात्मनोः सादृश्यत्वं लक्ष्यते। प्राणा: मूलत: जीवशरीरे प्राणापानसमानव्यानोदानाः पञ्चावयवः एव। प्राणा एकः एव पञ्चविभागत्वेन पृथक्त्वेन स्थित्वा पृथक् कार्यं सम्पादयन्ति । यथा प्राणाः इति चक्षुः श्रोत्रे मुख्य्नासिकाभ्यां तिष्ठन्ति । पायुपथि च अपानम्। प्राणापानयोः नाभ्यां मध्ये तु समान: वायु:, अशितं पीतञ्च समं नयति। व्यानः तु प्रणापानयो: सन्धि: । सर्वदेहं संव्याप्य व्यानो वर्तते। ऊर्द्धः उदान: तथा एकशतानां नाडीनां मध्ये उर्द्धगमनवती सुषम्नाख्या नाडी । तया एकया ऊर्द्ध: सन् उदानवायुः आपादमस्तकं सञ्चरति। सः मानवानां पापपुण्यञ्च निर्द्धारति। अत उपनिषदि श्रूयते- “अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति, पापेन पापम्, उभाभ्यामेव मनुष्यलोकम्”१५ "१५ इति । सदानन्दयोगीद्रेण वेदसन्तसारग्रन्थे पञ्चप्राणानां स्वरूपविषये उक्तम्- “प्राण: नाम प्राग्गमनवान् नासाग्रस्थानवर्ती। अपान: नाम अवाग्गमनवान् पाय्वादिस्थानवर्ती। व्यान: नाम विस्वग्गमनवान् अखिलशरीरवर्ती। उदानः नाम कन्ठस्थानीय: ऊर्ध्वगमनवान् उत्क्रमणवायुः। समानः नाम शरीरमध्यगताशितपीतादिसमीकरणकरः।” न केवलं शरीराभ्यन्तरे अपि तु वहि:जगति प्राणदिवायवानां प्रकाशत्वम्। यथा शरीरे प्राणाः मुख्याः तथा आदित्यैव वाह्यजगति प्राणस्वरूपः। सः हि आध्यात्मिके चक्षुषि अधिष्ठितप्राणप्रकाशेन अनुगृह्णाति। पृथिव्यां या अभिमानिती देवता सैव पुरुषस्य अपानम् १६। द्यावापृथिव्यो: अन्तरा य आकाश: तत्स्थो वायु: समान: इति। तत्भिन्नः सामान्येन यो वाह्यवायुः स एव व्याप्तिसामान्यत्वात्। उदान: तु तेज: एव, य: प्रसिद्धः सामान्य: वाह्यतेज सः हि उदानः। अत: उपनिषदि आम्नातम्- “तेजो ह वा उदान: तस्मादुपशान्ततेजा:”१७ इति।
Keywords
.
Citation
दार्शनिकदृष्ट्या प्राणतत्त्वविचा. गोविंद प्रसाद शर्मा. 2025. IJIRCT, Volume 11, Issue 1. Pages 1-5. https://www.ijirct.org/viewPaper.php?paperId=2502055