Paper Details
वाल्मीकि रामायणे वर्णव्यवस्थायाः विविधायामाः
Authors
जसराम बैरवा
Abstract
वर्ण-व्यवस्था पुराकाले ऋषिभिः मनीषिभिश्च सामाजिकतन्त्रे सम्यक् संचालनाय स्थापितमस्ति। ऋग्वेदे पुरुषसूक्ते यत्र सम्पूर्णं समाजं चतुर्षु श्रेणीषु विभक्तं दृश्यते—ब्राह्मण, क्षत्रिय, वैश्य, शूद्र इत्यादयः। यत्र प्रत्येकस्य उत्पत्तिर्विराट् पुरुषेण अभिव्यक्तं, यः पुरुषः सर्वभूतस्य आत्मा, प्रत्येकस्य गुणदर्शनमूलकं आधारभूतं अस्ति। ब्राह्मणः पुरुषस्य मुखे स्थितमस्ति, क्षत्रियः भुजद्वये स्थितमस्ति, वैश्यः उरुस्थले स्थितमस्ति, शूद्रः पादद्वयं प्राप्तमस्ति। एतेषां चतुर् वर्णानां समुच्चयात् 'आतिवर्णं' इति उच्यते। इति अनेन मन्त्रे सम्पूर्ण समाजस्य विविधतायाः स्पष्टिर्लभते, यत्र प्रत्येकं वर्णं स्वधर्मे स्थिरं च रहितं कार्येण आत्मनं प्रकटयति। वर्णव्यवस्था न केवलं सामाजिक संरचनायाः, अपि तु समाजे न्याय, समानता, तथा सहयोगस्य आदर्शमपि स्थापितं कर्तुं आवश्यकं आसीत्। यः कर्मफलस्य आधारः तथा समाजे प्रत्येकस्य व्यक्तित्वं च संतुलितं कर्तुं वर्णव्यवस्था संकल्पिता।
किंतु समये कालदृष्ट्या सामाजिक परिवर्तनानि समुत्पन्नानि। आधुनिक कालस्य विश्लेषणानुसार, वर्णव्यवस्था कदाचित् दुरुपयोगप्रवृत्तेः कारणं भूतवती, यः जातिवादस्य आधारशक्ति बनन्ति। परंतु प्राचीनकाले अस्मिन वदत्येव—वर्णव्यवस्था मानवजीवनस्य आवश्यक अंगमासीत्, यः समाजस्य प्रत्येकस्तरीय लोकधर्मं सुरक्षितुं व्यवस्थायाः शुद्धता प्रति केन्द्रितं अस्ति।
स्मर्तव्यं यः श्रेणीव्यवस्था कदाचित् अनर्थपरिणामेण परिणमति, किंतु ऋषिगणाः सामाजिक समरसता, पुण्यकर्म, तथा आत्मबोधे निरन्तर प्रयत्नशीलाः आसन्। शास्त्रविद् जनाः समाजस्य सर्वोत्तम हिताय कार्यं अतीव समर्पणमस्ति इति स्थापितं कर्तुं यत्नमधिष्ठितं यः अतिविस्तृतं कालांतरितं विज्ञानप्रवर्धनं च अभिनवदृष्ट्याः प्रतिस्पर्धं प्रवर्तयामास।
वर्ण-व्यवस्था पुराकाले ऋषिभिः मनीषिभिश्च सामाजिकतन्त्रं सम्यक्तया संचालनाय वर्णव्यवस्था नियोजिता ऋग्वेदे पुरुषसूक्तानां मन्त्रेषु सम्पूर्णः समाजः चतुर्षु श्रेणीषु विभक्तो विद्यते-ब्राह्मण-क्षत्रिय- वैश्य-शूद्रश्च। येषामुत्पत्तिर्विराट्पुरुषात्मन्यते। ब्राह्मण विराट्पुरुषस्य मुखं वर्तते, भुजाद्वयमस्ति क्षत्रियः, वैश्यः जानुद्वयमस्ति, शूद्रंपादद्वयं चास्ति। एतेभ्यः चतुर्वर्णेभ्यः चातुर्वर्णं उच्यते।
"ब्राह्मणोऽस्य मुखमासीद् बाहूराजन्यः कृतः।
उरुतदस्य यद्वैश्यः पदभ्यां शूद्रोऽजायतः ।।'
वर्णव्यवस्था भारतीयसंस्कृतेः महत्वपूर्ण सामाजिक-विषेशता वर्तते। प्रत्येकं जनः प्रत्येककार्यस्य कृते उपयुक्तो न भवति। प्रत्येकं मनुष्यस्य रूचि, स्वभावः, कार्यसामर्थ्यं पृथक-पृथक् भवति। यदि कश्चिद् स्वरुच्यानुसारं न कार्यं करोति, तदा तस्मिन् कार्ये से दक्षतां न प्राप्नोति। तत्कार्यमेव सः स्वरुच्यानुसारं करोति तर्हि तस्मिन कार्ये सः झटिति दक्षतां, यश, कीर्ति च प्राप्नोति। अतः समाजस्य पूर्णनिर्माणाय केचनविशिष्टा गुणा अनिवार्याः भवन्ति।
समाजस्य पूर्णविकासाय वेदेषु या वर्णव्यवस्था आसीत्। सा पूर्णरुपेण गुणेषु कर्मषु चाश्रिता वर्तते। वेदेषु वर्णः वृत्यानुसारमास्ति, जात्यानुसारं नास्ति। अतः ब्राह्मणादिनां वर्णानां सम्बन्धः जन्मनास्त्यपितु यस्य यादृशी वृत्तिभविष्यति, तस्य तादृशः वर्णः भविष्यति। गीतायां कथितम् -
"चातुर्वण्यं मया सृष्टं गुणकर्मविभागशः।"
रामायणकालेऽपि वर्णव्यवस्था वैदिकव्यवस्थानुसारं विराटपुरुषात् उत्पन्नमाना आसीत्। एतदनुसारं समाजस्य चर्तुषु वर्णेषु विभाजनं जातम्। विराटपुरुषमुखात् उत्पन्नकाराणात् ब्राह्मणः समाजशरीरस्यमुखम् ज्ञातम्। तस्य कार्यं अध्यापनं, यजनयाजनं च निर्धारितिम्। बाहुतः उत्पन्नमानाः क्षत्रियः समाजशरीरस्य वाहुद्वयम्, तस्य कार्यं शस्त्रधारणं, प्रजायाः रक्षाकरणम्, वैश्यः समाजशरीरस्य जानुद्वयम्, वाणिज्यव्यापारं समाजस्य पालनम्, पादाभ्याम् उत्पन्नमानः शूद्रः समाजसेवायाः भारं प्राप्तवान्।
"मुखतो ब्राह्मणा जाता उरसः क्षत्रियास्तथा।
उरुभ्यां जजिरे वैश्याः पद्भ्यां शूद्रा इति श्रुतिः ।।"
एतेषु चतुर्षु वर्णेषु प्रथमत्रयाणां वर्णानां ब्राह्मण-क्षत्रिय-वैश्यानां कृते द्विज उच्यते स्म।
दशरथेन समाजस्य सुव्यवस्थायै संसारे चतुर्वर्णान् स्वधर्मानुसारं तेषां नियुक्तिः पृथक् पृथक् रुपेण कृता। चातुर्वर्ण्य च लोकेऽस्मिन् स्वे स्वे धर्मे नियोध्यति। रामराज्ये चतुर्णां वर्णानां जनाः लोभरहितास्सन्तुष्टाञ्चासन् सर्वेऽपि स्व-स्व कर्मणि सलंग्रा आसन्।
"ब्राह्मणः क्षत्रिया वैश्याः शूद्रालोभविवर्जिता।
स्वकर्मसु प्रवर्तन्ते तुष्टाः स्वैरेव कर्मर्भिः ।।"
ब्राह्मणाः -
समाजरुपी पुरुषस्य मुखात् केवल भोजनेन सम्बन्ध नास्त्यपितु तस्मिन् मस्तिष्क स्वीक्रियते। मनुष्यशरीरे मस्तिष्कस्य सर्वोच्च स्थानं वर्तते। ब्राह्मणः समाजस्य समुचितं मार्गदर्शनं करोति। अतः मनुना ब्राह्मणाय षट्कर्मणां विधानं कृतं। येन ब्राह्मणः समाजे वन्दनीयः, पूजनीयश्च भवेत्।
"अध्यापनमध्ययनं यजनं याजनं तथा।
दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयन्।।"
रामायणकालेऽपि ब्राह्मणां स्थानं सर्वोपरि आसीत्। ब्राह्मणाः अहर्निशं ब्रह्मसाधनायां निरताः भवन्ति। वेदस्य, योगस्य सततं अनासक्तभावेन चिन्तनं कुर्वन्ति। यदा रामः वनवासे आसीत् तथा वने एतादृशाः ब्रह्मतेजसायुक्ताः ब्राह्मणाः हठयोगं कुर्वन्तिस्म।
"सर्वे ब्राह्मणा श्रिया युक्ता दृढ़योगसमन्विताः।"
दशरथस्य यज्ञेऽपि वेदविद्यायां पारंगताः वेदपाठिनः, ब्रह्मवादिनश्च ऋत्विजाः समागताहूता चासन्।
"ततोऽब्रवीनृपो वाक्य ब्राह्मणान् वेदपारगान्
सुमन्त्रावाह्य क्षिप्रमृत्विजो ब्रह्मवादिनः।"
समाजे ब्राह्माणं कार्यं यजनं याजनं, पठनं-पाठनं, तपस्या चासीत् इदमेव ब्राह्मणानां जीविकायाः साधनमप्यासीत्। पौरोहित्यविषये एकाधिकाराय एतेषामेकं संघटनमप्यासीत् यस्य वृतान्तं राज्ञः त्रिशक्तोः कथायां प्राप्यते। यदा वशिष्ठपुत्रैः त्रिशक्कोः यज्ञस्य पौरोहित्यमस्वीकृतम्, तदा राज्ञया विश्वामित्रं पुरोहितः नियुक्तः । पुनः वशिष्ठपुत्रैः राज्ञे चाण्डालं भव श्रापं दत्तम्। तदा दैवेरपि बलिः अस्वीकृता। इदानीं यज्ञस्य यजमानः चाण्डालः संजातः याजकः क्षत्रिय एवं अस्ति यतोहि विश्वामित्रेण ब्राह्मणत्वं न प्राप्तमास्ति।
Keywords
.
Citation
वाल्मीकि रामायणे वर्णव्यवस्थायाः विविधायामाः. जसराम बैरवा. 2025. IJIRCT, Volume 11, Issue 1. Pages 1-4. https://www.ijirct.org/viewPaper.php?paperId=2502018